ebook img

\ [žȡƸ˜Q - Sanjeev Sabhlok PDF

633 Pages·2012·2.22 MB·English
by  
Save to my drive
Quick download
Download
Most books are stored in the elastic cloud where traffic is expensive. For this reason, we have a limit on daily download.

Preview \ [žȡƸ˜Q - Sanjeev Sabhlok

PDF XCHANGE PDF XCHANGE W! W! www.Cdliock ctou b utyr aNOck.com www.Cdliock ctou b utyr aNOck.com The Sanskrit manuscript, discovered in 1902 in Tanjore (cid:92)(cid:144)(cid:158)(cid:91) (cid:545)(cid:440)(cid:152) (cid:81) 1. (Concerning Discipline) (cid:92)(cid:144)(cid:158)(cid:91) (cid:545)(cid:440)(cid:152)(cid:3)(cid:81) (cid:92)(cid:218)(cid:153)(cid:545)(cid:153) 01 2. The Duties of Government Superintendents) (cid:92)(cid:144)(cid:158)(cid:91) (cid:545)(cid:440)(cid:152)(cid:3)(cid:81) (cid:92)(cid:218)(cid:153)(cid:545)(cid:153) 02 ( 3. Concerning Law) (cid:92)(cid:144)(cid:158)(cid:91) (cid:545)(cid:440)(cid:152)(cid:3)(cid:81) (cid:92)(cid:218)(cid:153)(cid:545)(cid:153) 03 ( 4. The Removal of Thorns) (cid:92)(cid:144)(cid:158)(cid:91) (cid:545)(cid:440)(cid:152)(cid:3)(cid:81) (cid:92)(cid:218)(cid:153)(cid:545)(cid:153) 04 ( 5. The Conduct of Courtiers) (cid:92)(cid:144)(cid:158)(cid:91) (cid:545)(cid:440)(cid:152)(cid:3)(cid:81) (cid:92)(cid:218)(cid:153)(cid:545)(cid:153) 05 ( 6. The Source of Sovereign States) (cid:92)(cid:144)(cid:158)(cid:91) (cid:545)(cid:440)(cid:152)(cid:3)(cid:81) (cid:92)(cid:218)(cid:153)(cid:545)(cid:153) 06 ( 7. The End of the Six Fold Policy) (cid:92)(cid:144)(cid:158)(cid:91) (cid:545)(cid:440)(cid:152)(cid:3)(cid:81) (cid:92)(cid:218)(cid:153)(cid:545)(cid:153) 07 ( 8. Concerning Vices and Calamities) (cid:92)(cid:144)(cid:158)(cid:91) (cid:545)(cid:440)(cid:152)(cid:3)(cid:81) (cid:92)(cid:218)(cid:153)(cid:545)(cid:153) 08 ( 9. The Work of an Invader) (cid:92)(cid:144)(cid:158)(cid:91) (cid:545)(cid:440)(cid:152)(cid:3)(cid:81) (cid:92)(cid:218)(cid:153)(cid:545)(cid:153) 09 ( 10. Relating to War) (cid:92)(cid:144)(cid:158)(cid:91) (cid:545)(cid:440)(cid:152)(cid:3)(cid:81) (cid:92)(cid:218)(cid:153)(cid:545)(cid:153) 10 ( 11. The Conduct of Corporations) (cid:92)(cid:144)(cid:158)(cid:91) (cid:545)(cid:440)(cid:152)(cid:3)(cid:81) (cid:92)(cid:218)(cid:153)(cid:545)(cid:153) 11 ( 12. Concerning a Powerful Enemy) (cid:92)(cid:144)(cid:158)(cid:91) (cid:545)(cid:440)(cid:152)(cid:3)(cid:81) (cid:92)(cid:218)(cid:153)(cid:545)(cid:153) 12 ( 13. Strategic Means to Capture a Fortress) (cid:92)(cid:144)(cid:158)(cid:91) (cid:545)(cid:440)(cid:152)(cid:3)(cid:81) (cid:92)(cid:218)(cid:153)(cid:545)(cid:153) 13 ( 14. Secret Means) (cid:92)(cid:144)(cid:158)(cid:91) (cid:545)(cid:440)(cid:152)(cid:3)(cid:81) (cid:92)(cid:218)(cid:153)(cid:545)(cid:153) 14 ( 15. The Plan of a Treatise) (cid:92)(cid:144)(cid:158)(cid:91) (cid:545)(cid:440)(cid:152)(cid:3)(cid:81) (cid:92)(cid:218)(cid:153)(cid:545)(cid:153) 15 ( This is a compilation of the original text ofArthashastra into PDF – bySanjeev Sabhlok on 11 September 2012, from the internet (Source). I’ve interspersed with the original text is the translation by R. Shamasastry, 1915 (Source). There are two other major translations: byR.P. Kangle and L.N. Rangarajan. PDF XCHANGE PDF XCHANGE W! W! www.Cdliock ctou b utyr aNOck.com www.Cdliock ctou b utyr aNOck.com PREFACE I’ll prepare a proper preface in due course, time permitting, but this little snippet from the internet is excellent introduction. The question of whether Chanakya, who was a professor at Taxila University and later the prime minister of the Mauryan Empire, was a great historical figure or just a mythical character, was answered when the palm leaves of Koutilya’s “Arthashastra” were discovered. When Bhatta Swamy of Tanjore chanced upon 168 palm leaves of Koutilya’s (also known as Chanakya) “Arthashastra”, written in the 4th century BC, he handed it over to Sanskrit scholar Rudrapatna Shama Shastry, who was a curator at Oriental Research Institute (ORI) of Mysore, in 1902. Dr. Shastry edited and published the same in 1909, and Chanakya was recognised for his greatness. Later, this work was translated into various languages across the world, according to manuscript expert in ORI, Dr. Jagannath. The first publication of “Arthashastra” has completed 100 years and ORI is organising a programme to mark the centenary. The circle next to ORI was named as “Koutilya Vrutta” in memory of the greatest ever discovery of the institute — the original palm leaf manuscript of Koutilya’s Economic Treatise — which brought international fame to the institute. Dr. Shastry’s contribution was recognised the world over. Washington University accorded him honorary doctorate. Nalwadi Krishnaraja Wadiyar honoured him with the title of “Arthashastra Visharada” at the 1926 Dasara festival. Commending the contribution of Dr. Shastry, noted littérateur and an authority on reading manuscripts T.V. Venkatachalashastry described him as a star in the intellectual world. Recognising his services, Government of India accorded him the title of “Mahamahopadhyaya”. He has also served in the history department of University of Mysore. Sanjeev Sabhlok Melbourne 11 September 2012 01 1 अर्थशास्त्रम् अध्याय 01 (Book.1: Concerning the topic of training) प्रकरण-अधिकरण समुद्देशः (Chap..1: Enumeration of sections and books) ॐ नमः.शुक्र.बृहस्पतिभ्यां अशा-०१.१.०१ पृथिव्या लाभे पालने च यावन्त्य् अर्थ.शास्त्राणि पूर्व.आचार्यैः प्रस्थापितानि प्रायशस् तानि संहृत्य_एकम् इदम् अर्थ.शास्त्रं कृतम् ॥ अशा-०१.१.०२ तस्य_अयं प्रकरण.अधिकरण.समुद्देशः ॥ अशा-०१.१.०३क विद्या.समुद्देशः, वृद्ध.समुद्देशः, इन्द्रिय.जयः, अमात्य.उत्पत्तिः, मन्त्रि.पुरोहित.उत्पत्तिः, उपधाभिः शौच.अशौच.ज्ञानम् अमात्यानाम्, - - अशा-०१.१.०३ख गूढ.पुरुष.प्रणिधिः, स्व.विषये कृत्य.अकृत्य.पक्ष.रक्षणम्, पर.विषये कृत्य.अकृत्य.पक्ष.उपग्रहः, - अशा-०१.१.०३ग मन्त्र.अधिकारः, दूत.प्रणिधिः, राज.पुत्र.रक्षणम्, अपरुद्ध.वृत्तम्, अपरुद्धे वृत्तिः, राज.प्रणिधिः, निशान्त.प्रणिधिः, आत्म.रक्षितकम्, --, इति विनय.अधिकारिकं प्रथमम् अधिकरणम् ॥ अशा-०१.१.०४क जनपद.निवेशः, भूमिच्.छिद्र.अपिधानम्, दुर्ग.विधानम्, दुर्ग.निवेशः, सम्निधातृ.निचय.कर्म, समाहर्तृ.समुदय.प्रस्थापनम्, अक्ष.पटले गाणनिक्य.अधिकारः, - अशा-०१.१.०४ख समुदयस्य युक्त.अपहृतस्य प्रत्यानयनम्, उपयुक्त.परीक्षा, शासन.अधिकारः, कोश.प्रवेश्य.रत्न.परीक्षा, आकर.कर्म.अन्त.प्रवर्तनम्, अक्ष.शालायां सुवर्ण.अध्यक्षः - अशा-०१.१.०४ग विशिखायां सौवर्णिक.प्रचारः, कोष्ठ.आगार.अध्यक्षः, पण्य.अध्यक्षः, कुप्य.अध्यक्षः, आयुध.अध्यक्षः, तुला.मान.पौतवम्, - अशा-०१.१.०४घ देश.काल.मानम्, शुल्क.अध्यक्षः, सूत्र.अध्यक्षः, सीत.अध्यक्षः, सुरा.अध्यक्षः, सून.अध्यक्षः, गणिका.अध्यक्षः, - अशा-०१.१.०४च नाव्.अध्यक्षः, गो.अध्यक्षः, अश्व.अध्यक्षः, हस्त्य्.अध्यक्षः, रथ.अध्यक्षः, पत्त्य्.अध्यक्षः, सेना.पति.प्रचारः, मुद्रा.अध्यक्षः, विवीत.अध्यक्षः, समाहर्तृ.प्रचारः, - अशा-०१.१.०४छ गृह.पतिक.वैदेहक.तापस.व्यञ्जनाः प्रणिधयः, नागरिक.प्रणिधिः -- इत्य् अध्यक्ष.प्रचारो द्वितीयम् अधिकरणम् ॥ अशा-०१.१.०५क व्यवहार.स्थापना, विवाद.पद.निबन्धः, विवाह.सम्युक्तम्, दाय.विभागः, वास्तुकम्, समयस्य अनपाकर्म, ऋण.अदानम्, औपनिधिकम्, दास.कर्म.कर.कल्पः, - अशा-०१.१.०५ख सम्भूय समुत्थानम्, विक्रीत.क्रीत.अनुशयः, दत्तस्य अनपाकर्म, अस्वामि.विक्रयः, स्व.स्वामि.सम्बन्धः, साहसम्, वाक्.पारुष्यम्, दण्ड.पारुष्यम्, द्यूत.समाह्वयम्, प्रकीर्णकं - इति, धर्म.स्थीयं तृतीयम् अधिकरणम् ॥ अशा-०१.१.०६क कारु.कर.क्षणम्, वैदेहक.रक्षणम्, उपनिपात.प्रतीकारः, गूढ.आजीविनां रक्षा, सिद्ध.व्यञ्जनैर् माणव.प्रकाशनम्, शङ्का.रूप.कर्म.अभिग्रहः, - अशा-०१.१.०६ख आशु.मृतक.परीक्षा, वाक्य.कर्म.अनुयोगः, सर्व.अधिकरण.रक्षणं - अशा-०१.१.०६ग एक.अङ्ग.वध.निष्क्रयः, शुद्धश् चित्रश् च दण्ड कल्पः, कन्या.प्रकर्म, अतिचार.दण्डाः - इति कण्टक.शोधनं चतुर्थम् अधिकरणम् ॥ अशा-०१.१.०७ दाण्डकर्मिकम्, कोश.अभिसंहरणम्, भृत्य.भरणीयम्, अनुजीवि.वृत्तम्, समय.आचारिकम्, राज्य.प्रतिसंधानम्, एक.ऐश्वर्यं - इति योग.वृत्तं पञ्चमम् अधिकरणम् ॥ अशा-०१.१.०८ प्रकृति.सम्पदः, शम.व्यायामिकं - इति मण्डल.योनिः षष्ठम् अधिकरणम् ॥ 01 2 अशा-०१.१.०९क षाड्गुण्य.समुद्देशः, क्षय.स्थान.वृद्धि.निश्चयः, संश्रय.वृत्तिः, समहीन.ज्यायसां गुण.अभिनिवेशः, हीन.संधयः, विगृह्य आसनम्, संधाय आसनम्, विगृह्य यानम्, संधाय यानम्, - अशा-०१.१.०९ख सम्भूय प्रयाणम्, यातव्य.अमित्रयोर् अभिग्रह.चिन्ता, क्षय.लोभ.विराग.हेतवः प्रकृतीनाम्, सामवायिक.विपरिमर्शः, - अशा-०१.१.०९ग संहित प्रयाणिकम्, परिपणित.अपरिपणित.अपसृताः संधयः, द्वैधी.भाविकाः संधि.विक्रमाः, यातव्य.वृत्तिः, अनुग्राह्य.मित्र.विशेषाः, - अशा-०१.१.०९घ मित्र.हिरण्य.भूमि.कर्म.संधयः, पार्ष्णि.ग्राह.चिन्ता, हीन.शक्ति.पूरणम्, बलवता विगृह्य उपरोध.हेतवः, दण्ड.उपनत.वृत्तम्, - अशा-०१.१.०९च दण्ड.उपनायि.वृत्तम्, संधि.कर्म, समाधि.मोक्षः, मध्यम.चरितम्, उदासीन.चरितम्, मण्डल.चरितं - इति षाड्गुण्यं सप्तमम् अधिकरणम् ॥ अशा-०१.१.१० प्रकृति.व्यसन.वर्गः, राज.राज्ययोर् व्यसन.चिन्ता, पुरुष.व्यसन.वर्गः, पीडन.वर्गः, स्तम्भ.वर्गः, कोश.सङ्ग.वर्गः, मित्र.व्यसन.वर्गः - इति व्यसन.आधिकारिकम् अष्टमम् अधिकरणम् ॥ अशा-०१.१.११क शक्ति.देश.काल.बल.अबल.ज्ञानम्, यात्रा.कालाः, बल.उपादान.कालाः, सम्नाह.गुणाः, प्रतिबल.कर्म, पश्चात् कोप.चिन्ता, बाह्य.आभ्यन्तर.प्रकृति.कोप.प्रतीकाराः - अशा-०१.१.११ख क्षय.व्यय.लाभ.विपरिमर्शः, बाह्य.आभ्यन्तराश् च_आपदः, दुष्य.शत्रु.सम्युक्ताः, अर्थ.अनर्थ.संशय.युक्ताः, तासाम् उपाय.विकल्पजाः सिद्धयः - इत्य् अभियास्यत् कर्म नवमम् अधिकरणम् ॥ अशा-०१.१.१२ स्कन्ध.आवार.निवेशः, स्कन्ध.आवार.प्रयाणम्, बल.व्यसन.अवस्कन्द.काल.रक्षणम्, कूट.युद्ध.विकल्पाः, स्व.सैन्य.उत्साहनम्, स्व.बल.अन्य.बल.व्यायोगः, युद्ध.भूमयः, पत्त्य्.अश्व.रथ.हस्ति.कर्माणि, पक्ष.कक्ष.उरस्यानां बल.अग्रतो व्यूह.विभागः, सार.फल्गु.बल.विभागः, पत्त्य्.अश्व.रथ.हस्ति.युद्धानि, दण्ड.भोग.मण्डल.असंहत.व्यूह.व्यूहनम्, तस्य प्रतिव्यूह.स्थापनं - इति सांग्रामिकं दशमम् अधिकरणम् ॥ अशा-०१.१.१३ भेद.उपादानानि, उपांशु.दण्डाः - इति संघ.वृत्तम् एकादशम् अधिकरणम् ॥ अशा-०१.१.१४ दूत.कर्म, मन्त्र.युद्धम्, सेना.मुख्य.वधः, मण्डल.प्रोत्साहनम्, शस्त्र.अग्नि.रस.प्रणिधयः, वीवध.आसार.प्रसार.वधः, योग.अतिसंधानम्, दण्ड.अतिसंधानम्, एक.विजयः - इत्य् आबलीयसं द्वादशम् अधिकरणम् ॥ अशा-०१.१.१५ उपजापः, योग.वामनम्, अपसर्प.प्रणिधिः, पर्युपासन.कर्म, अवमर्दः, लब्ध.प्रशमनं - इति दुर्ग.लम्भ.उपायस् त्रयोदशम् अधिकरणम् ॥ अशा-०१.१.१६ पर.बल.घात.प्रयोगः, प्रलम्भनम्, स्व.बल.उपघात.प्रतीकारः - इत्य् औपनिषदिकं चतुर्दशम् अधिकरणम् ॥ अशा-०१.१.१७ तन्त्र.युक्तयः - इति तन्त्र.युक्तिः पञ्चदशम् अधिकरणम् ॥ अशा-०१.१.१८ शास्त्र.समुद्देशः पञ्चदश.अधिकरणानि स-अशीति.प्रकरण.शतं स-पञ्चाशद्.अध्याय.शतं षट्.श्लोक.सहस्राणि_इति ॥ अशा-०१.१.१९कख सुख.ग्रहण.विज्ञेयं तत्त्व.अर्थ.पद.निश्चितम् । अशा-०१.१.१९गघ कौटिल्येन कृतं शास्त्रं विमुक्त.ग्रन्थ.विस्तरम् ॥ विद्याः (Chap.2, section.1: Enumeration of the sciences) ((i) Establishing (the necessity of) philosophy) अशा-०१.२.०१ आन्वीक्षिकी त्रयी वार्त्ता दण्ड.नीतिश् च_इति विद्याः ॥ अशा-०१.२.०२ त्रयी वार्त्ता दण्ड नीतिश् च_इति मानवाः ॥ 01 3 अशा-०१.२.०३ त्रयी विशेषो ह्य् आन्वीक्षिकी_इति ॥ अशा-०१.२.०४ वार्त्ता दण्ड.नीतिश् च_इति बार्हस्पत्याः ॥ अशा-०१.२.०५ संवरण.मात्रं हि त्रयी लोक.यात्रा.विद इति ॥ अशा-०१.२.०६ दण्ड.नीतिर् एका विद्या_इत्य् औशनसाः ॥ अशा-०१.२.०७ तस्यां हि सर्व.विद्या.आरम्भाः प्रतिबद्धा इति ॥ अशा-०१.२.०८ चतस्र एव विद्या इति कौटिल्यः ॥ अशा-०१.२.०९ ताभिर् धर्म.अर्थौ यद् विद्यात् तद् विद्यानां विद्यात्वम् ॥ अशा-०१.२.१० सांख्यं योगो लोकायतं च_इत्य् आन्वीक्षिकी ॥ अशा-०१.२.११ धर्म.अधर्मौ त्रय्याम् अर्थ.अनर्थौ वार्त्तायां नय.अनयौ दण्ड.नीत्यां बल.अबले च एतासां हेतुभिर् अन्वीक्षमाणा लोकस्य उपकरोति व्यसने_अभ्युदये च बुद्धिम् अवस्थापयति प्रज्ञा.वाक्य.क्रिया.वैशारद्यं च करोति ॥ अशा-०१.२.१२कख प्रदीपः सर्व.विद्यानाम् उपायः सर्व.कर्मणाम् । अशा-०१.२.१२गघ आश्रयः सर्व.धर्माणां शश्वद् आन्वीक्षिकी मता ॥ (Chap.3, section.1, (I) Establishing (the necessity of) the Vedic lore) अशा-०१.३.०१ साम.ऋग्.यजुर्.वेदास् त्रयस् त्रयी ॥ अशा-०१.३.०२ अथर्व.वेद.इतिहास.वेदौ च वेदाः ॥ अशा-०१.३.०३ शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो.विचितिर् ज्योतिषम् इति च_अङ्गानि ॥ अशा-०१.३.०४ एष त्रयी.धर्मश् चतुर्णां वर्णानाम् आश्रमाणां च स्व.धर्म.स्थापनाद् औपकारिकः ॥ अशा-०१.३.०५ स्वधर्मो ब्राह्मणस्य अध्ययनम् अध्यापनं यजनं याजनं दानं प्रतिग्रहश् च ॥ अशा-०१.३.०६ क्षत्रियस्य_अध्ययनं यजनं दानं शस्त्र.आजीवो भूत.रक्षणं च ॥ अशा-०१.३.०७ वैश्यस्य_अध्ययनं यजनं दानं कृषि.पाशुपाल्ये वणिज्या च ॥ अशा-०१.३.०८ शूद्रस्य द्विजाति.शुश्रूषा वार्त्ता कारु.कुशीलव.कर्म च ॥ अशा-०१.३.०९ गृहस्थस्य स्वधर्म.आजीवस् तुल्यैर् असमान.ऋषिभिर् वैवाह्यम् ऋतु.गामित्वं देव.पित्र्.अतिथि.पूजा भृत्येषु त्यागः शेष.भोजनं च ॥ अशा-०१.३.१० ब्रह्म.चारिणः स्वाध्यायो अग्नि.कार्य.अभिषेकौ भैक्ष.व्रतित्वम् आचार्ये प्राण.अन्तिकी वृत्तिस् तद्.अभावे गुरु.पुत्रे स-ब्रह्म.चारिणि वा ॥ अशा-०१.३.११ वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जटा.अजिन.धारणम् अग्नि.होत्र.अभिषेकौ देवता.पित्र्.अतिथि.पूजा वन्यश् च_आहारः ॥ अशा-०१.३.१२ 01 4 परिव्राजकस्य जित.इन्द्रियत्वम् अनारम्भो निष्किंचनत्वं सङ्ग.त्यागो भैक्षव्रतम् अनेकत्र_अरण्ये च वासो बाह्य.आभ्यन्तरं च शौचम् ॥ अशा-०१.३.१३ सर्वेषाम् अहिंसा सत्यं शौचम् अनसूय आनृशंस्यं क्षमा च ॥ अशा-०१.३.१४ स्वधर्मः स्वर्गाय_आनन्त्याय च ॥ अशा-०१.३.१५ तस्य_अतिक्रमे लोकः संकराद् उच्छिद्येत ॥ अशा-०१.३.१६कख तस्मात् स्वधर्मं भूतानां राजा न व्यभिचारयेत् । अशा-०१.३.१६गघ स्वधर्मं संदधानो हि प्रेत्य च_इह च नन्दति ॥ अशा-०१.३.१७कख व्यवस्थित.आर्य.मर्यादः कृत.वर्ण.आश्रम.स्थितिः । अशा-०१.३.१७गघ त्रय्या_अभिरक्षितो लोकः प्रसीदति न सीदति ॥ ( Establishing (the necessity of) Economics, and the Science of Politics) अशा-०१.४.०१ कृषि.पाशुपाल्ये वणिज्या च वार्ता, धान्य.पशु.हिरण्य.कुप्य.विष्टि.प्रदानाद् औपकारिकी ॥ अशा-०१.४.०२ तया स्व.पक्षं पर.पक्षं च वशी.करोति कोश.दण्डाभ्याम् ॥ अशा-०१.४.०३ आन्वीक्षिकी त्रयी वार्त्तानां योग.क्षेम.साधनो दण्डः, तस्य नीतिर् दण्ड नीतिः, अलब्ध.लाभ.अर्था लब्ध.परिरक्षणी रक्षित.विवर्धनी वृद्धस्य तीर्थे प्रतिपादनी च ॥ अशा-०१.४.०४ तस्याम् आयत्ता लोक.यात्रा ॥ अशा-०१.४.०५ "तस्माल् लोक.यात्रा.अर्थी नित्यम् उद्यत.दण्डः स्यात् ॥ अशा-०१.४.०६ न ह्य् एवंविधं वश.उपनयनम् अस्ति भूतानां यथा दण्डः ।" इत्य् आचार्याः ॥ अशा-०१.४.०७ न_इति कौटिल्यः ॥ अशा-०१.४.०८ तीक्ष्ण.दण्डो हि भूतानाम् उद्वेजनीयो भवति ॥ अशा-०१.४.०९ मृदु.दण्डः परिभूयते ॥ अशा-०१.४.१० यथा.अर्ह.दण्डः पूज्यते ॥ अशा-०१.४.११ सुविज्ञात.प्रणीतो हि दण्डः प्रजा धर्म.अर्थ.कामैर् योजयति ॥ अशा-०१.४.१२ दुष्प्रणीतः काम.क्रोधाभ्याम् अवज्ञानाद् वा वानप्रस्थ.परिव्राजकान् अपि कोपयति, किं.अङ्ग पुनर् गृहस्थान् ॥ अशा-०१.४.१३ अप्रणीतस् तु मात्स्य.न्यायम् उद्भावयति ॥ अशा-०१.४.१४ बलीयान् अबलं हि ग्रसते दण्ड.धर.अभावे ॥ अशा-०१.४.१५ स तेन गुप्तः प्रभवति इति ॥ अशा-०१.४.१६कख 01 5 चतुर्.वर्ण.आश्रमो लोको राज्ञा दण्डेन पालितः । अशा-०१.४.१६गघ स्वधर्म.कर्म.अभिरतो वर्तते स्वेषु वर्त्मसु ॥ (Section.2: Association with elders) अशा-०१.५.०१ तस्माद् दण्ड.मूलास् तिस्रो विद्याः ॥ अशा-०१.५.०२ विनय.मूलो दण्डः प्राणभृतां योग.क्षेम.आवहः ॥ अशा-०१.५.०३ कृतकः स्वाभाविकश् च विनयः ॥ अशा-०१.५.०४ क्रिया हि द्रव्यं विनयति न_अद्रव्यम् ॥ अशा-०१.५.०५ शुश्रूषा श्रवण.ग्रहण.धारण.विज्ञान.ऊह.अपोह.तत्त्व.अभिनिविष्ट.बुद्धिं विद्या विनयति न_इतरम् ॥ अशा-०१.५.०६ विद्यानां तु यथास्वम् आचार्य.प्रामाण्याद् विनयो नियमश् च ॥ अशा-०१.५.०७ वृत्त.चौल.कर्मा लिपिं संख्यानं च_उपयुञ्जीत ॥ अशा-०१.५.०८ वृत्त.उपनयनस् त्रयीम् आन्वीक्षिकीं च शिष्टेभ्यो वार्त्ताम् अध्यक्षेभ्यो दण्ड.नीतिं वक्तृ.प्रयोक्तृभ्यः ॥ अशा-०१.५.०९ ब्रह्मचर्यं च षोडशाद् वर्षात् ॥ अशा-०१.५.१० अतो गो.दानं दार.कर्म च_अस्य ॥ अशा-०१.५.११ नित्यश् च विद्या.वृद्ध.सम्योगो विनय.वृद्ध्य्.अर्थम्, तन्.मूलत्वाद् विनयस्य ॥ अशा-०१.५.१२ पूर्वम् अहर्.भागं हस्त्य्.अश्व.रथ.प्रहरण.विद्यासु विनयं गच्छेत् । अशा-०१.५.१३ पश्चिमम् इतिहास.श्रवणे ॥ अशा-०१.५.१४ पुराणम् इतिवृत्तम् आख्यायिक.उदाहरणं धर्म.शास्त्रम् अर्थ.शास्त्रं च_इति_इतिहासः ॥ अशा-०१.५.१५ शेषम् अहोरात्र.भागम् अपूर्व.ग्रहणं गृहीत.परिचयं च कुर्यात्, अगृहीतानाम् आभीक्ष्ण्य.श्रवणं च ॥ अशा-०१.५.१६ श्रुताद्द् हि प्रज्ञा_उपजायते प्रज्ञाया योगो योगाद् आत्मवत्ता_इति विद्यानां सामर्थ्यम् ॥ अशा-०१.५.१७कख विद्या.विनीतो राजा हि प्रजानां विनये रतः । अशा-०१.५.१७गघ अनन्यां पृथिवीं भुङ्क्ते सर्व.भूत.हिते रतः ॥ (Section.3: Control over the senses, (i) Casting out the group of six enemies) अशा-०१.६.०१ विद्या विनय.हेतुर् इन्द्रिय.जयः काम.क्रोध.लोभ.मान.मद.हर्ष.त्यागात् कार्यः ॥ अशा-०१.६.०२ कर्ण.त्वग्.अक्षि.जिह्वा.घ्राण.इन्द्रियाणां शब्द.स्पर्श.रूप.रस.गन्धेष्व् अविप्रतिपत्तिर् इन्द्रिय.जयः, शास्त्र.अनुष्ठानं वा ॥ अशा-०१.६.०३ कृत्स्नं हि शास्त्रम् इदम् इन्द्रिय.जयः ॥ 01 6 अशा-०१.६.०४ तद् विरुद्ध.वृत्तिर् अवश्य.इन्द्रियश् चातुरन्तो अपि राजा सद्यो विनश्यति ॥ अशा-०१.६.०५ यथा दाण्डक्यो नाम भोजः कामाद् ब्राह्मण.कन्याम् अभिमन्यमानः स-बन्धु.राष्ट्रो विननाश, करालश् च वैदेहः ॥ अशा-०१.६.०६ कोपाज् जनमेजयो ब्राह्मणेषु विक्रान्तः, ताल.जङ्घश् च भृगुषु ॥ अशा-०१.६.०७ लोभाद् ऐलश् चातुर्वर्ण्यम् अत्याहारयमाणः, सौवीरश् च_अजबिन्दुः । अशा-०१.६.०८ मानाद् रावणः पर.दारान् अप्रयच्छन्, दुर्योधनो राज्याद् अंशं च ॥ अशा-०१.६.०९ मदाद् दम्भोद्भवो भूत.अवमानी, हैहयश् च_अर्जुनः ॥ अशा-०१.६.१० हर्षाद् वातापिर् अगस्त्यम् अत्यासादयन्, वृष्णि.संघश् च द्वैपायनम् इति ॥ अशा-०१.६.११कख एते च_अन्ये च बहवः शत्रु.षड्.वर्गम् आश्रिताः । अशा-०१.६.११गघ स-बन्धु.राष्ट्रा राजानो विनेशुर् अजित.इन्द्रियाः ॥ अशा-०१.६.१२कख शत्रु.षड्.वर्गम् उत्सृज्य जामदग्न्यो जित.इन्द्रियः । अशा-०१.६.१२गघ अम्बरीषश् च नाभागो बुभुजाते चिरं महीम् ॥ ( The life of a sage-like king) अशा-०१.७.०१ तस्माद् अरि.षड्.वर्ग.त्यागेन_इन्द्रिय.जयं कुर्वीत, वृद्ध.सम्योगेन प्रज्ञाम्, चारेण चक्षुः, उत्थानेन योग.क्षेम.साधनम्, कार्य.अनुशासनेन स्वधर्म.स्थापनम्, विनयं विद्या.उपदेशेन, लोक.प्रियत्वम् अर्थ.सम्योगेन वृत्तिम् ॥ अशा-०१.७.०२ एवं वश्य.इन्द्रियः पर.स्त्री.द्रव्य.हिंसाश् च वर्जयेत्, स्वप्नं लौल्यम् अनृतम् उद्धत.वेषत्वम् अनर्थ्य.सम्योगम् अधर्म.सम्युक्तम् अनर्थ.सम्युक्तं च व्यवहारम् ॥ अशा-०१.७.०३ धर्म.अर्थ.अविरोधेन कामं सेवेत, न निह्सुखः स्यात् ॥ अशा-०१.७.०४ समं वा त्रिवर्गम् अन्योन्य.अनुबद्धम् ॥ अशा-०१.७.०५ एको ह्य् अत्यासेवितो धर्म.अर्थ.कामानाम् आत्मानम् इतरौ च पीडयति ॥ अशा-०१.७.०६ अर्थ_एव प्रधान_इति कौटिल्यः ॥ अशा-०१.७.०७ अर्थ.मूलौ हि धर्म.कामाव् इति ॥ अशा-०१.७.०८ मर्यादां स्थापयेद् आचार्यान् अमात्यान् वा, य_एनम् अपाय स्थानेभ्यो वारयेयुः, छाया.नालिका.प्रतोदेन वा रहसि प्रमाद्यन्तम् अभितुदेयुः ॥ अशा-०१.७.०९कख सहाय.साध्यं राजत्वं चक्रम् एकं न वर्तते । अशा-०१.७.०९गघ कुर्वीत सचिवांस् तस्मात् तेषां च शृणुयान् मतम् ॥ (Appointment of ministers) अशा-०१.८.०१ "सह.अध्यायिनो अमात्यान् कुर्वीत, दृष्ट.शौच.सामर्थ्यत्वात्" इति भारद्वाजः ॥ 01 7 अशा-०१.८.०२ "ते ह्य् अस्य विश्वास्या भवन्ति" इति ॥ अशा-०१.८.०३ न_इति विशाल.अक्षः ॥ अशा-०१.८.०४ "सह.क्रीडितत्वात् परिभवन्त्य् एनम् ॥ अशा-०१.८.०५ ये ह्य् अस्य गुह्य.सधर्माणस् तान् अमात्यान् कुर्वीत, समान.शील.व्यसनत्वात् ॥ अशा-०१.८.०६ ते ह्य् अस्य मर्मज्ञ.भयान् न_अपराध्यन्ति" इति ॥ अशा-०१.८.०७ "साधारण_एष दोषः" इति पाराशराः ॥ अशा-०१.८.०८ "तेषाम् अपि मर्मज्ञ.भयात् कृत.अकृतान्य् अनुवर्तेत ॥ अशा-०१.८.०९कख यावद्भ्यो गुह्यम् आचष्टे जनेभ्यः पुरुष.अधिपः । अशा-०१.८.०९गघ अवशः कर्मणा तेन वश्यो भवति तावताम् ॥ अशा-०१.८.१० य_एनम् आपत्सु प्राण.आबाध.युक्तास्व् अनुगृह्णीयुस् तान् अमात्यान् कुर्वीत, दृष्ट.अनुरागत्वात्" इति ॥ अशा-०१.८.११ न_इति पिशुनः ॥ अशा-०१.८.१२ "भक्तिर् एषा न बुद्धि.गुणः ॥ अशा-०१.८.१३ संख्यात.अर्थेषु कर्मसु नियुक्ता ये यथा.आदिष्टम् अर्थं सविशेषं वा कुर्युस् तान् अमात्यान् कुर्वीत, दृष्ट.गुणत्वात्" इति ॥ अशा-०१.८.१४ न_इति कौणपदन्तः ॥ अशा-०१.८.१५ "अन्यैर् अमात्य.गुणैर् अयुक्ता ह्य् एते ॥ अशा-०१.८.१६ पितृ.पैतामहान् अमात्यान् कुर्वीत, दृष्ट.अवदानत्वात् ॥ अशा-०१.८.१७ ते ह्य् एनम् अपचरन्तम् अपि न त्यजन्ति, सगन्धत्वात् ॥ अशा-०१.८.१८ अमानुषेष्व् अपि च_एतद् दृश्यते ॥ अशा-०१.८.१९ गावो ह्य् असगन्धं गो.गणम् अतिक्रम्य सगन्धेष्व् एव_अवतिष्ठन्ते" इति ॥ अशा-०१.८.२० न_इति वातव्याधिः ॥ अशा-०१.८.२१ "ते ह्य् अस्य सर्वम् अवगृह्य स्वामिवत् प्रचरन्ति ॥ अशा-०१.८.२२ तस्मान् नीतिविदो नवान् अमात्यान् कुर्वीत ॥ अशा-०१.८.२३ नवास् तु यम.स्थाने दण्ड.धरं मन्यमाना न_अपराध्यन्ति" इति ॥ अशा-०१.८.२४ 01 8 न_इति बाहु.दन्ती पुत्रः ॥ अशा-०१.८.२५ "शास्त्रविद् अदृष्ट.कर्मा कर्मसु विषादं गच्छेत् ॥ अशा-०१.८.२६ तस्माद् अभिजन.प्रज्ञा.शौच.शौर्य.अनुराग.युक्तान् अमात्यान् कुर्वीत, गुण.प्राधान्यात्" इति ॥ अशा-०१.८.२७ सर्वम् उपपन्नम् इति कौटिल्यः ॥ अशा-०१.८.२८ कार्य.सामर्थ्याद्द् हि पुरुष.सामर्थ्यं कल्प्यते ॥ अशा-०१.८.२९कख सामर्थ्यश् च -- विभज्य_अमात्य.विभवं देश.कालौ च कर्म च । अशा-०१.८.२९गघ अमात्याः सर्व एव_एते कार्याः स्युर् न तु मन्त्रिणः ॥ (Appointment of counsellors and chaplain) अशा-०१.९.०१ जानपदो अभिजातः स्ववग्रहः कृत.शिल्पश् चक्षुष्मान् प्राज्ञो धारयिष्णुर् दक्षो वाग्मी प्रगल्भः प्रतिपत्तिमान् उत्साह.प्रभाव.युक्तः क्लेश.सहः शुचिर् मैत्रो दृढ.भक्तिः शील.बल.आरोग्य.सत्त्व.युक्तः स्तम्भ.चापल.हीनः सम्प्रियो वैराणाम् अकर्ता_इत्य् अमात्य.सम्पत् ॥ अशा-०१.९.०२ अतः पाद.अर्घ.गुण.हीनौ मध्यम.अवरौ ॥ अशा-०१.९.०३ तेषां जनपद्.अभिजनम् अवग्रहं च_आप्ततः परीक्षेत, समान.विद्येभ्यः शिल्पं शास्त्र.चक्षुष्मत्तां च, कर्म.आरम्भेषु प्रज्ञां धारयिष्णुतां दाक्ष्यं च, कथा.योगेषु वाग्मित्वं प्रागल्भ्यं प्रतिभानवत्त्वं च, संवासिभ्यः शील.बल.आरोग्य.सत्त्व.योगम् अस्तम्भम् अचापलं च, प्रत्यक्षतः सम्प्रियत्वम् अवैरत्वं च ॥ अशा-०१.९.०४ प्रत्यक्ष.परोक्ष.अनुमेया हि राज.वृत्तिः ॥ अशा-०१.९.०५ स्वयं द्र्ष्टं प्रत्यक्षम् ॥ अशा-०१.९.०६ पर.उपदिष्टं परोक्षम् ॥ अशा-०१.९.०७ कर्मसु कृतेन_अकृत.अवेक्षणम् अनुमेयम् ॥ अशा-०१.९.०८ यौगपद्यात् तु कर्मणाम् अनेकत्वाद् अनेकस्थत्वाच् च देश.काल.अत्ययो मा भूद् इति परोक्षम् अमात्यैः कारयेत् ॥ इत्य् अमात्य.कर्म । अशा-०१.९.०९ पुरोहितम् उदित.उदित.कुल.शीलं स-अङ्गे वेदे दैवे निमित्ते दण्ड.नीत्यां च_अभिविनीतम् आपदां दैव.मानुषीणाम् अथर्वभिर् उपायैश् च प्रतिकर्तारं कुर्वीत ॥ अशा-०१.९.१० तम् आचार्यं शिष्यः पितरं पुत्रो भृत्यः स्वामिनम् इव च_अनुवर्तेत ॥ अशा-०१.९.११कख ब्राह्मणेन_एधितं क्षत्रं मन्त्रि.मन्त्र.अभिमन्त्रितम् । अशा-०१.९.११गघ जयत्य् अजितम् अत्यन्तं शास्त्र.अनुगम.शस्त्रितम् ॥ (Ascertainment of the integrity or the absence of integrity of minister by means of secret tests) अशा-०१.१०.०१ मन्त्रि.पुरोहित.सखः सामान्येष्व् अधिकरणेषु स्थापयित्वा_अमात्यान् उपधाभिः शोधयेत् ॥ अशा-०१.१०.०२ पुरोहितम् अयाज्य.याजन.अध्यापने नियुक्तम् अमृष्यमाणं राजा_अवक्षिपेत् ॥ अशा-०१.१०.०३ स सत्त्रिभिः शपथ.पूर्वम् एकैकम् अमात्यम् उपजापयेत् - "अधार्मिको अयं राजा, साधु धार्मिकम् अन्यम् अस्य तत्.कुलीनम् अपरुद्धं कुल्यम् एक.प्रग्रहं सामन्तम्

Description:
Sep 11, 2012 This is a compilation of the original text of Arthashastra into PDF The first publication of “Arthashastra” has completed 100 years and ORI is.
See more

The list of books you might like

Most books are stored in the elastic cloud where traffic is expensive. For this reason, we have a limit on daily download.